9798905105050: संस्कृतसुपदसुबोधिनी

Sinossi

संस्कृतसुपदसुबोधिनी नामकः ग्रन्थः प्रसिद्धेन डा. विद्वान् एन. आर. मुरलीधर-महोदयेन विरचितः। भाषा मनुष्यस्य अभिप्रायप्रकाशनस्य मुख्यं साधनम् अस्ति, अतः पदज्ञानं विना वाक्यप्रयोगः न सम्भवति। ग्रन्थे सुबन्त, तिङन्त तथा अव्ययपदानां स्वरूपं सुस्पष्टतया निरूपितम् अस्ति। सुबन्तप्रकरणे शताधिकशब्दानां विभक्तिवचनरूपाणि सहार्थैः, कन्नडभाषानुवादैश्च प्रदत्तानि सन्ति। तिङन्तप्रकरणे धातुरूपाणि, दशलकाराः, क्रियापदप्रयोगाः तथा कर्तरि-कर्मणि-भावे प्रयोगाः विवृताः सन्ति। शताधिकधातूनां रूपाणि अपि संगृहीतानि सन्ति। एषः ग्रन्थः विद्यार्थिनां विदुषां च कृते उपयोगी मार्गदर्शकः भवति तथा संस्कृताध्ययनस्य सुलभसाधनम् अस्ति।

Le informazioni nella sezione "Riassunto" possono far riferimento a edizioni diverse di questo titolo.